
SHREE SHARMA
240 days ago
|| महाकाल स्तोत्रम् || --------------------------- ॐ महाकाल महाकाय, महाकाल जगत्पते । महाकाल महायोगिन्, महाकाल नमोऽस्तुते ।। महाकाल महादेव, महाकाल महाप्रभो । महाकाल महारुद्र, महाकाल नमोऽस्तुते ॥ महाकाल महाज्ञान, महाकाल तमोऽपहन् । महाकाल महाकाल, महाकाल नमोऽस्तुते ॥ भवाय च नमस्तुभ्यं, शर्वाय च नमो नमः । रुद्राय च नमस्तुभ्यं, पशूनां पतये नमः ॥ उग्राय च नमस्तुभ्यं, महादेवाय वै नमः । भीमाय च नमस्तुभ्यमीशानाय नमो नमः ॥ ईश्वराय नमस्तुभ्यं, तत्पुरुषाय वै नमः । सद्योजात नमस्तुभ्यं, शुक्लवर्ण नमो नमः ॥ अधः कालाग्नि रुद्राय, रुद्ररूपाय वै नमः । स्थित जुत्पत्ति-लयानां च हेतु-रूपाय वै नमः ॥ परमेश्वर-रूपस्त्वं नीलकण्ठ नमोऽस्तुते । पवनाय नमस्तुभ्यं, हुताशन नमोऽस्तुते ॥ सोमरूप नमस्तुभ्यं, सूर्य रूप नमोऽस्तुते । यजमान नमस्तुभ्यमाकाशाय नमो नमः ॥ सर्वरूप नमस्तुभ्यं, विश्वरूप नमोऽस्तुते । ब्रह्मरूप नमस्तुभ्यं, विष्णुरूप नमोऽस्तुते ॥ रुद्ररूप नमस्तुभ्यं, महाकाल नमोऽस्तुते । स्थावराय नमस्तुभ्यं, जङ्गमाय नमो नमः ॥ नम उभय-रूपाभ्यां, शाश्वताय नमो नमः । हुं हुङ्कार ! नमस्तुभ्यं, निष्कलाय नमो नमः ॥ अनाद्यन्त महाकाल, निर्गुणाय नमो नमः । सच्चिदानन्द-रूपाय, महाकालाय ते नमः ॥ प्रसीद मे नमो नित्यं, मेघवर्ण! नमोऽस्तुते । प्रसीद मे महेशान दिग्वासाय नमो नमः ॥ ॐ ह्रीं माया स्वरूपाय, सच्चिदानन्द- तेजसे । स्वाहा सम्पूर्णमन्त्राय, सोऽहं हंसाय ते नमः ॥ इत्येवं देव-देवस्य, महाकालस्य भैरवि ! । कीर्तितं पूजनं सम्यक्, साधकानां सुखावहम् ॥

Comments (2)

Rama Devi Sahu
Jan 3, 2026
🙏🔱 Jai Shree Mahakaal 🔱🙏🕉️🌿🕉️🌿🕉️🌿🕉️🌿🕉️
