
SHREE SHARMA
311 days ago
श्रीराम द्वादश नाम स्तोत्र ~~~~~~~~~ प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् । तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥ पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् । सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥ नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम् । एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥ द्वादशैतानि नामानि यः पठेच्छ्रद्धयान्वितः । अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥ ४॥ अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् । ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥ ५॥ सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् । ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः । अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥ इति श्री स्कन्दपुराणे उत्तरखण्डे श्रीउमामहेश्वरसंवादे श्रीरामद्वादशनामस्तोत्रम् सम्पूर्णम् ।

Comments (1)

Rama Devi Sahu
Oct 24, 2025
🙏🌸🌿 Jai Shree Ram 🌿🌸🙏
