
SHREE SHARMA
217 days ago
।। श्री सूर्य द्वादश नाम स्तोत्रम् ।। आदित्यं प्रथमं नाम द्वितीयं तु दिवाकर:। तृतीयं भास्कर: प्रोक्तं चतुर्थं तु प्रभाकर:।। पंचमं तु सहस्त्रांशु षष्ठं त्रैलोक्यलोचन:। सप्तमं हरिदश्वश्य अष्टमं च विभावसु:।। नवमं दिनकर: प्रोक्तों दशमं द्वादशात्मक:। एकादशं त्रयोमूर्ति द्वादशं सूर्य एव च।। द्वादशादित्यनामानि प्रातः काले पठेन्नरः। दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ दह्रकुष्ठहरं चैव चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थप्रदं चैव सर्वकार्यप्रवर्द्धनम् ॥ यः पठेत् प्रातरुत्थाय भक्त्या नित्यमिदं नरः । सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ इति श्री सूर्य द्वादश नाम स्तोत्रम् सम्पूर्णम्।। ००००००००००००००००००००

Comments (1)

Rama Devi Sahu
Jan 26, 2026
🙏🌞 Om Surya Devay Namah 🌞🙏
