MyMandirInstall
Profile

SHREE SHARMA

229 days ago

।। रूद्र कवचम् ।। ~ ध्यानम् ~ शांतं पद्मासनस्थं शशिधरमकुटं पंचवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहंतम्। नागं पाशं च घंटां प्रलय हुतवहं सांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि।। दूर्वास उवाच - प्रणम्य शिरसा देवं स्वयंभुं परमेश्वरम्। एकं सर्वगतं देवं सर्वदेवमयं विभुम्।। रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये। अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा।। रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा। शिरो मे ईश्वरः पातु ललाटं नीललोहितः।। नेत्रयोस्त्र्यंबकः पातु मुखं पातु महेश्वरः। कर्णयोः पातु मे शंभुः नासिकायां सदाशिवः।। वागीशः पातु मे जिह्वां ओष्ठौ पात्वंबिकापतिः। श्रीकंठः पातु मे ग्रीवां बाहूंश्चैव पिनाकधृत्।। हृदयं मे महादेवः ईश्वरोव्यात् स्तनांतरम्। नाभिं कटिं च वक्षश्च पातु सर्वं उमापतिः।। बाहुमध्यांतरं चैव सूक्ष्मरूपः सदाशिवः। स्वरं रक्षतु सर्वेशो गात्राणि च यथा क्रमम्।। वज्रशक्तिधरं चैव पाशांकुशधरं तथा। गंडशूलधरं नित्यं रक्षतु त्रिदशेश्वरः।। प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे। संध्यायां राजभवने विरूपाक्षस्तु पातु माम्।। शीतोष्णादथ कालेषु तुहि न द्रुमकंटके। निर्मनुष्येऽसमे मार्गे त्राहि मां वृषभध्वज।। इत्येतद्रुद्रकवचं पवित्रं पापनाशनम्। महादेवप्रसादेन दूर्वासो मुनिकल्पितम्।। ममाख्यातं समासेन न भयं विंदति क्वचित्। प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम्।। विद्यार्थी लभते विद्यां धनार्थी लभते धनम्। कन्यार्थी लभते कन्यां न भयं विंदते क्वचित्।। अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात्। त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय।। त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरंतक। पाशं खट्वांग दिव्यास्त्रं त्रिशूलं रुद्रमेव च।। नमस्करोमि देवेश त्राहि मां जगदीश्वर । शत्रुमध्ये सभामध्ये ग्राममध्ये गृहांतरे।। गमनागमने चैव त्राहि मां भक्तवत्सल। त्वं चित्तं त्वं मानसं च त्वं बुद्धिस्त्वं परायणम्।। कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा। ज्वरभयं छिंदि सर्वज्वरभयं छिंदि ग्रहभयं छिंदि।। सर्वशत्रून्निवर्त्यापि सर्वव्याधिनिवारणम्। रुद्रलोकं स गच्छति रुद्रलोकं सगच्छत्योन्नम इति।। इति स्कंदपुराणे दूर्वास प्रोक्तं श्री रुद्रकवचं समाप्तम् ।। ••••••••••••••••••••

Post media

Comments (0)

No comments yet. Be the first to comment!