
Lal Singh 🇮🇳🇮🇳
2 days ago
🌷 ॥ श्रीगोसहस्रनामस्तोत्रम् ॥ हरिः ॐ तत्सत्॥ श्रीगणेशाय नमः॥ श्रीमद्राघवो विजयते ॥ ॥ जगद्गुरुश्रीमदाद्यरामानन्दाचार्याय नमः॥ श्रीगोमात्रे नमः ॥ ~ ॥ अथ श्रीगोसहस्रनामस्तोत्रम् ॥ ~ अथश्रीचित्रकूटतुलसीपीठाधीश्वर-जगद्गुरु-रामानन्दाचार्य-महाकवि-स्वामिरामभद्राचार्यविरचितं श्रीगोसहस्रनामस्तोत्रं प्रारभ्यते। 🍁 ध्यानम् 🍁 सीतारामकृपासुधाश्रिततनुं वात्सल्यमन्दाकिनीं देवीं देवशरीरिणीं भगवतीं सम्पूजितां दैवतैः। हुंकारार्दितपापतापनिवहां गोपालसम्पालितां गोविन्दार्चितपङ्कजाङ्घ्रिमनघां ध्यायामि गोमातरम्॥ इति ध्यानम्। नित्यानन्दजयौ शिष्यौ जगद्गुरुपरायणौ। पप्रच्छतुश्चित्रकूटतुलसीपीठवल्लभम्॥ जगद्गुरुं रामभद्राचार्यं शास्त्रविशारदम्। रामानन्दपदोपात्तसिंहासनमघापहम्॥ शिष्यावूचतुः— भगवञ्छ्रोतुमिच्छावः श्रीमद्वदनपङ्कजात्। सर्वशास्त्ररहस्यं यत् स्तोत्रं पुण्यकरं शिवम्॥ जगद्गुरुरुवाच— शृणुतं मत्प्रियौ शिष्यौ नित्यानन्दजयौ द्विजौ। सर्वकल्याणसदनं स्तोत्रं कलिमलापहम्॥ गवां नामसहस्रं यद्रामानन्दो जगद्गुरुः। मामुवाच युवाभ्यां तत्प्रवक्ष्ये विश्वभूतये॥ रामारामं घनश्यामं गोविन्दं गोपतिप्रियम्। वन्दे गोपं गोपगोपीभावितं भवगोष्पदम्॥ गोमातुर्यानि नामानि गोव्रतैः सद्भिरादृतैः। गीतानि गीयमानानि तानि गायामि भूतये॥ 🍁 विनियोगः 🍁:-ॐ अस्य श्रीगोसहस्रनामस्तोत्रमन्त्रस्य जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्य ऋषिः, अनुष्टुप् छन्दः, गौर्देवता, गौविन्दी बीजम्, गवेन्द्रार्या कीलकम्, गौः शक्तिः। गोमातुः प्रसन्नतार्थं पाठे विनियोगः। 🍁 अथ स्तोत्रम् 🍁 ॐ गौर्गौविन्दी गवेन्द्रार्या गवीशा गोपगोपिता। गोजा गोदा गविप्रार्थ्या गवेड्या गोपतिप्रिया॥१॥ गोपा गोपालिका गोपी गोपीथा गोपदार्कगुः। गोमयी गोमती गव्यदोग्ध्री गोमा गविस्तुता॥२॥ गोपहूता गोपवन्द्या गोपगीता गवार्चिता। गोविन्दपालिता गोष्ठा गोप्रिया गोमयामृता॥३॥ सर्वदेवमयी देवी दिव्याङ्घ्रिर्दिव्यभा द्युगुः। दिव्यरूपा दिव्यमाल्या दिव्यगन्धा द्युधृग्द्युभुक्॥४॥ सर्वश्रेष्ठा सर्वतीर्था सर्वपूज्या समप्रिया। शमा शान्ता शुचिः स्निग्धा शुभ्रा सुभ्रूः स्वभूः स्वगुः॥५॥ कल्याणी कामदा काम्या कामगा कामधुक् कधुक्। कोष्णदुग्धा कुजा कावी कीर्तिता कीर्तिवर्धिनी॥६॥ माधवी माधवप्रेष्ठा मा मान्या माधवप्रिया। मानुता मानिता मेष्टा महिता महिमस्थिता॥७॥ बन्धुरा बन्धुदा बन्धुर्बान्धवी बन्धुगावधूः। वन्दिता वाग्वृषवधूर्वन्दारुर्दारवी द्रुमा॥८॥ चारुरूपा चारुशृङ्गी चारुशोभा सुचारुगुः। चारुवत्सा चारुखुरा चारुगा चारुसुस्तनी॥९॥ चारुशीला चारुरुचिश्चारुभाषा चतुष्पदा। पवित्रा पावनी पूता पूतात्मा पापनाशिनी॥१०॥ शुभा शुभतरा सौम्या शोभिता शोभनस्पृहा। शुक्लवर्णा शुक्लरदा शुक्लत्विट् शुक्लरूपिणी॥११॥ श्यामा श्यामप्रिया श्यामकर्णी श्यामपयोधरा। श्यामपुच्छी श्यामवर्णा श्यामाङ्घ्रिः श्यामलोमिका॥१२॥ श्यामात्मा श्यामभा श्यामदेहिका श्यामवत्सका। श्यामचित्ता श्यामसत्त्वा श्यामका श्याममूर्धजा॥१३॥ कपिला कपिलस्तुत्या कपिलाक्षी सकापिली। कपिशा कपिशार्दूलपूज्या पूज्यपदाम्बुजा॥१४॥ प्रणवा प्रणवाकारा प्रणवाभा प्रणेदुषी। प्रणवेड्या सत्प्रणवा प्रणवध्वानधारिणी॥१५॥ प्राणा प्राणमयी प्राणपोषिणी प्राणधारिणी। प्राणभृत् प्राणकृत् प्राणधृत् प्राणत्विट् प्रणम्यधीः॥१६॥ गव्यधुग् गव्यभुग् गव्यसूर् गव्यस्पृक् सगव्यभा। गव्यगा गव्यला गव्यदायिनी गव्यपायिनी॥१७॥ हव्यदोहा हव्यतनुर्हव्यात्मा हव्यसूर् हविः। दोग्ध्री हव्यपया हव्यसर्पिर्हव्यदधिः स्वदा॥१८॥ कव्यकृत् कव्यभृत् कव्यधारिणी कव्यहारिणी। कव्येष्टा कव्यघृतिका कव्यपूः कव्यवर्षिणी॥१९॥ कामधेनुः कामगवी कामसूः कामकामिता। कामदा कामगा कामवर्षिणी कामकर्षिणी॥२०॥ कामरूपा कामखुरा कामौजाः कामनाशिनी। कामपूरा कामरुचिः कामतेजाः सुकामिनी॥२१॥ कामश्वासा कामरवा कामा कामकरीषिणी। कामगन्धा कामवरा कामहा कामकुः शका॥२२॥ कामहर्षा कामवर्षा काम्या काम्यवरप्रदा। कामवृष्टिः कामसृष्टिः कामगृष्टिर्गरीयसी॥२३॥ स्वर्गवी स्वर्णदीपूता स्वर्गनुत् स्वर्गसेविनी। स्वर्गध

Comments (0)
No comments yet. Be the first to comment!
