MyMandirInstall
Profile

SHREE SHARMA

79 days ago

।। श्रीरघुनाथमङ्गलस्तोत्रम् ।। मङ्गलं लोकरामाय रघुरामाय मङ्गलम् । मङ्गलं पद्मवक्त्राय रामभद्राय मङ्गलम् ॥ १॥ मङ्गलं कोसलेन्द्राय रामचन्द्राय मङ्गलम् । मङ्गलं मम नाथाय रघुनाथाय मङ्गलम् ॥ २॥ मङ्गलं रणधीराय रघुवीराय मङ्गलम् । मङ्गलं सत्यसन्धाय राजसिंहाय मङ्गलम् ॥ ३॥ मङ्गलं निरवद्याय वेदवेद्याय मङ्गलम् । मङ्गलं मुक्तिमूलाय मेघनीलाय मङ्गलम् ॥ ४॥ मङ्गलं सत्वरध्वस्तरुद्रचापाय मङ्गलम् । मङ्गलं जानकीनेत्रपूर्णपात्राय मङ्गलम् ॥ ५॥ मङ्गलं मिथिलानाथमौलिरत्नाय मङ्गलम् । मङ्गलं निस्सपत्नाय मङ्गलं नीलशालिने ॥ ६॥ मङ्गलं मैथिलीधन्यवनवासाय मङ्गलम् । मङ्गलं लक्ष्मणोपात्तभृत्यकृत्याय मङ्गलम् ॥ ७॥ मङ्गलं गुहसङ्गेन गङ्गाकूलनिवासिने । मङ्गलं गौतमीतीरपारिजाताय मङ्गलम् ॥ ८॥ मङ्गलं दण्डकारण्यवासिनिर्वातचेतसे । मङ्गलं शबरीदत्तफलमूलाभिलाषिणे ॥ ९॥ मङ्गलं सद्गुणारोपचापहस्ताय मङ्गलम् । मङ्गलं वायुपुत्रेण वन्दनीयाय मङ्गलम् ॥ १०॥ मङ्गलं वालिसुग्रीवहर्षशोकाभिघातिने । मङ्गलं मैथिलीमौलिमणिरञ्जितवक्षसे ॥ ११॥ मङ्गलं सर्वलोकानां शरण्याय महीयसे । मङ्गलं सागरोत्साहश‍ृङ्गभङ्गविधायिने ॥ १२॥ मङ्गलं वासवामित्रमर्दनोवृत्तबाहवे । मङ्गलं विश्वमित्राय विद्रावणदयादृशे ॥ १३॥ मङ्गलं वीक्षमाणाय मैथिलीवदनाम्बुजम् । मङ्गलं विनिवृत्ताय पुरं पौरनिवृत्तये ॥ १४॥ मङ्गलं भरतप्रीतिप्राप्तराज्याय मङ्गलम् । मङ्गलं मैथिलीयोगमहनीयाय मङ्गलम् ॥ १५॥ मङ्गलं हारकोटीरपादपीठाय मङ्गलम् । मङ्गलं रणधुर्याय तुङ्गपन्नगशायिने ॥ १६॥ मङ्गलं सह्यजामात्यसान्निध्यकृतचेतसे । मङ्गलं मानुषे लोके वैकुण्ठमिति तिष्ठते ॥ १७॥ शेषशैलनिवासाय श्रीनिवासाय मङ्गलम् । मङ्गलं वेधसो वेदिमेदिनीग्रहमेधिने ॥ १८॥ वरदाय दयाधाम्ने वीरोदाराय मङ्गलम् । मङ्गलं धनदादानदत्तसक्तिषि सम्पदे (?) ॥ १९॥ मङ्गलं नारसिंहाय नरसिंहाय मङ्गलम् । मङ्गलं मामहीनीलानित्यमुक्तैकचक्षुषे ॥ २०॥ य इदं कीर्तयेन्नित्यं मङ्गलं मङ्गलस्तवम् । वर्तयेत् पुरतस्तस्य मङ्गलायतनं हरिः ॥ २१॥ ।। इति श्रीरघुनाथमङ्गलं सम्पूर्णम् ।।

Post media

Comments (3)

Riya Riya  💖💖

Riya Riya 💖💖

Jun 12, 2026

🚩🏹 Jai shree ram 🏹🚩 shubh sandhya vandan ji 🌹🙏

Rama Devi Sahu

Rama Devi Sahu

Jun 12, 2026

🙏🏹 Jai Shree Ram 🏹🙏