
SHREE SHARMA
460 days ago
आदित्य ह्रदय स्तोत्र का पाठ नियमित करने से अप्रत्याशित लाभ मिलता है। आदित्य हृदय स्तोत्र के पाठ से नौकरी में पदोन्नति, धन प्राप्ति, प्रसन्नता, आत्मविश्वास के साथ-साथ समस्त कार्यों में सफलता मिलती है। हर मनोकामना सिद्ध होती है। सरल शब्दों में कहें तो आदित्य ह्रदय स्तोत्र हर क्षेत्र में चमत्कारी सफलता देता है। || श्री आदित्य हृदय स्तोत्रं || नमस्सवित्रे जगदेक चक्षुसे जगत्प्रसूति स्थिति नाशहेतवे त्रयीमयाय त्रिगुणात्म धारिणे विरिञ्चि नारायण शङ्करात्मने ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् | रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् | उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖ राम राम महाबाहो शृणु गुह्यं सनातनम् | येन सर्वानरीन् वत्स समरे विजयिष्यसि ‖ 3 ‖ आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् | जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖ सर्वमङ्गल माङ्गल्यं सर्व पाप प्रणाशनम् | चिन्ताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖ रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् | पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः | एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖ एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः | महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖ पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः | वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् | सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖ हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् | तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ‖ 11 ‖ हिरण्यगर्भः शिशिरः तपनो भास्करो रविः | अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ‖ 12 ‖ व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः | घनावृष्टि रपां मित्रो विन्ध्यवीथी प्लवङ्गमः ‖ 13 ‖ आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः | कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖ नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः | तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖ नमः पूर्वाय गिरये पश्चिमायाद्रये नमः | ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖ जयाय जयभद्राय हर्यश्वाय नमो नमः | नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖ नम उग्राय वीराय सारङ्गाय नमो नमः | नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖ ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे | भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖ तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने | कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖ तप्त चामीकराभाय वह्नये विश्वकर्मणे | नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖ नाशयत्येष वै भूतं तदेव सृजति प्रभुः | पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः | एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖ वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च | यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖ एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || 25 || पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ‖ 26 ‖ अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ‖ 27 ‖ एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ‖ 28 ‖ आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ‖ 29 ‖ रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ‖ 30 ‖ अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ‖31‖
Comments (2)

Rama Devi Sahu
May 28, 2025
🙏‼️ Hare Krishna ‼️🙏

🙏Y.R Singh🙏
May 28, 2025
Jay Shri Radhey Krishna
