
SHREE SHARMA
379 days ago
।। धर्म कृतं श्रीकृष्णस्तोत्रम् ।। धर्म उवाच- कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।। गोविन्दं परमानन्दमेकमक्षरमच्युतम् ।। गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।। गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिणम् ।। गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।। वन्देऽनवद्यमनघं श्यामं शान्तं मनोहरम् ॥ इत्युच्चार्य्य समुत्तिष्ठन्रत्नसिंहासने वरे ।। ब्रह्मविष्णुमहेशांस्तान्सम्भाष्य स उवास ह।। चतुर्विंशतिनामानि धर्मवक्त्रोद्गतानि च।। यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ।। मृत्युकाले हरेर्नाम तस्य साध्यं लभेद् धुवम् ।। स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ।। नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।। चतुर्वर्गफलं तस्य शश्वत्करगतं भवेत्।। तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च।। भयानि चैव दुःखानि वैनतेयमिवोरगाः।। इति श्रीब्रह्मवैवर्तमहापुराणे ब्रह्म खण्डे धर्म कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।। 🙏

Comments (2)

Rama Devi Sahu
Aug 17, 2025
Jai Shree Krishna 🙏 Subha Ratri Vishram Jii 🌹 Bhagwan ki Aasirbad Aap pr Sadeib Bani Rahe 🙏 Aap ka Ratri Sukhd or Mangal Ho....
