MyMandirInstall
Profile

SHREE SHARMA

307 days ago

न तातो न माता, न बन्धुर्न दाता न पुत्रो न पुत्री, न भृत्यो न भर्ता। न जाया न विद्या, न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥१॥ भवाब्धावपारे महादुःखभीरुः पपात प्रकामी, प्रलोभी प्रमत्तः। कुसंसार-पाश-प्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥२॥ न जानामि दानं, न च ध्यानयोगं न जानामि तंत्रं, न च स्तोत्र-मन्त्रम्। न जानामि पूजां, न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥३॥ न जानामि पुण्यं, न जानामि तीर्थं न जानामि मुक्तिं, लयं वा कदाचित्। न जानामि भक्तिं, व्रतं वापि मात- र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥४॥ कुकर्मी कुसङ्गी, कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः। कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥५॥ प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥६॥ विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये। अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥७॥ अनाथो दरिद्रो जरा-रोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः। विपत्तौ प्रविष्टः प्रणष्टः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥८॥ ॥इति श्रीमच्छड़्कराचार्यकृतं भवान्यष्टकं सम्पूर्णम्॥

Post media

Comments (0)

No comments yet. Be the first to comment!