
SHREE SHARMA
68 days ago
।। शिव द्वादशनाम स्तोत्रम् ।। प्रथमं तु महादेवं द्वितीयं तु महेश्वरं। तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम्।।१।। पञ्चमं कृत्तिवासं च षष्ठं कामङ्गनाशनं। सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा।।२।। नवमं तु हरं देवं दशमं पार्वतीपतिं। रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते।।३।। एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः। गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः।।४।। स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः। सर्वं नाशयते पापं शिवलोकं स गच्छति।।५।। शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरं। इन्दुमण्डल मध्यस्थं वन्दे देवं सदाशिवम्।।६।। इति शिव द्वादशनाम स्तोत्रं समाप्तम् ।। ००००००००००००००००

Comments (0)
No comments yet. Be the first to comment!
