
SHREE SHARMA
59 days ago
॥ श्रीराम द्वादशनाम स्तोत्रम् ॥ प्रथमं श्रीकरं नित्यं द्वितीयं दशरथात्मजम् । तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥ पञ्चमं लोकपूज्यं च षष्ठमं जानकीप्रियम् । सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥ नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् । एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिकम् ॥ ४॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनाम स्तोत्रं सम्पूर्णम् ।। ०००००००००००

Comments (0)
No comments yet. Be the first to comment!
