MyMandirInstall
Profile

SHREE SHARMA

32 days ago

\\ श्री शिवाष्टकम् स्तोत्र // प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥३॥ तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् । गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शंभुमीशानमीडे ॥४। गिरीन्द्रात्मजासङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्निगेहम् ।परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शंभुमीशानमीडे ॥५॥ कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् ।बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शंभुमीशानमीडे ॥६॥ शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं धनॆशस्य मित्रम् ।अपर्णाकळत्रं चरित्रं विचित्रं शिवं शङ्करं शंभुमीशानमीडे ॥७॥ हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् ।श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शंभुमीशानमीडे ॥८॥ स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः । स पुत्रं धनं धान्यमित्रं कळत्रं विचित्रैः समाराद्य मोक्षं प्रयाति ॥९॥ इति श्रीशिवाष्टकं संपूर्णम् ॥

Post media

Comments (2)

बरखा शर्मा

बरखा शर्मा

Jul 29, 2026

गुरु पूर्णिमा की हार्दिक शुभकामनाएं जी राधे राधे जी 🙏💐