MyMandirInstall

॥ रति कामदेव स्तोत्रम् ॥ श्रीपुरुषोत्तम उवाच- कामदेव नमस्तेऽस्तु त्वं सदा पुरुषोत्तमः । हरिं कामं विचिनोमि कृपां कुरु ममोपरि'' ॥ गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति । अधिवासनपूर्वं च सर्वतोभद्रमण्डले ॥ स्थापयित्वा हरिं कामं रतिं च दमनद्रुमम् । आच्छाद्य श्वेतवस्त्रेण पूजयेत् कन्यका प्रिये ॥ क्लीं कामदेवाय नमो ह्रीम् रत्यै च नमो नमः । पूर्वस्यां ह्रीं च कन्दर्पं पूजयामि निशाऽऽगमे ॥ गन्धपुष्पाक्षतधूपदीपनैवेद्यकैः शुभैः । आरार्त्रिकादिभिर्दैवं पूजयामि पतिं प्रभुम् ॥ मदनाय नमः प्राच्यां मन्मथाय नमोऽग्निके । कन्दर्पाय नमो याम्येऽनङ्गाय नमो नैरृते ॥ वारुण्यां मोहनाय नमः स्मराय नमोऽनिले । कौबेर्यामीश्वराय नमः पुष्पबाणायैशान्यां नमः॥ सर्वदिक्षु नमस्कृत्य मां कन्या पूजयेत् ततः । ॐ कन्दर्पपुरुषाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्गः प्रचोदयात्'' ॥ इति चाष्टोत्तरशतजपान् कुर्याद्धि सन्निधौ । नमोऽस्तु कामपतये पुष्पशराय ते नमः ॥ मन्मथायाऽऽनन्ददात्रे नमो रतिकराय ते । प्रीतिदाय नमस्तेऽस्तु सर्वबीजाय ते नमः ॥ कान्ताय कान्तरूपाय सर्ववासाय ते नमः । पुरुषोत्तमरूपायाऽनङ्गदेवाय ते नमः ॥ अनादिश्रीकृष्णनारायण वाञ्च्छितकामद । हृत्स्थान् पूरय कामान्मे प्रभो कामेश्वरीप्रिय'' ॥ स्तुत्वैवं मञ्जरी वारि दातव्ये मम पादयोः । गीतवादित्रनृत्यैश्च कर्तव्यश्चोत्सवो महान् ॥ इति कामदेव-रतिस्तोत्रं सम्पूर्णम् ॥

Post media

Comments (1)

Rama Devi Sahu

Rama Devi Sahu

Sep 9, 2026

🙏‼️ Om Shree Govinday Namo Namah ‼️🙏 Suprabhat Ji 🙏🌹