
Rohit Patel
352 days ago
ll वृहस्पति स्तोत्र ll ************** पीताम्बर:पीतवपु:किरीटी चतुर्भुजो देवगुरु: प्रशान्त: । दधाति दण्डं च कमण्डलुं च तथाक्षसूत्रं वरदोऽस्तु मह्यम् ।। नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: । नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ।। सदानन्द नमस्तेस्तु नम: पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ।। नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नम: । नम: प्रह्रष्टनेत्राय विप्राणां पतये नम: ।। नमो भार्गवशिष्याय विपन्नहितकारक: । नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ।। विषमस्थस्तथा नृणां सर्वकष्टप्रणाशनम् । प्रत्यहं तु पठेद्यो वै तस्य कामफलप्रदम् ।। •••••••••••••••••••••••••

Comments (0)
No comments yet. Be the first to comment!
