MyMandirInstall
Profile

Rama Devi Sahu

200 days ago

॥श्रीसत्यनारायणाष्टकम्॥ आदिदेवं जगत्कारणं श्रीधरं, लोकनाथं विभुं व्यापकं शङ्करं। सर्वभक्तेष्टदं मुक्तिदं माधवं, सत्यनारायणं विष्णुमीशम्भजे॥१॥ सर्वदा लोककल्याणपारायणं, देव गो विप्ररक्षार्थसद्विग्रहम्। दीनहीनात्मभक्ताश्रयं सुन्दरं, सत्यनारायणं विष्णुमीशम्भजे॥२॥ दक्षिणे यस्य गङ्गा शुभा शोभते, राजते सा रमा यस्य वामे सदा। यः प्रसन्नाननो भाति भव्यश्च तं, सत्यनारायणं विष्णुमीशम्भजे॥३॥ सङ्कटे सङ्गरे यं जनः सर्वदा, स्वात्मभीनाशनाय स्मरेत् पीडितः। पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं, सत्यनारायणं विष्णुमीशम्भजे॥४॥ वाञ्छितं दुर्लभं यो ददाति प्रभुः, साधवे स्वात्मभक्ताय भक्तिप्रियः। सर्वभूताश्रयं तं हि विश्वम्भरं, सत्यनारायणं विष्णुमीशम्भजे॥५॥ ब्राह्मणः साधुवैश्यश्च तुङ्गध्वजो, येऽभवन् विश्रुता यस्य भक्त्यामराः। लीलया यस्य विश्वं ततं तं विभुं, सत्यनारायणं विष्णुमीशम्भजे॥६॥ येन चाब्रह्मबालतृणं धार्यते, सृज्यते पाल्यते सर्वमेतज्जगत्। भक्तभावप्रियं श्रीदयासागरं, सत्यनारायणं विष्णुमीशम्भजे॥७॥ सर्वकामप्रदं सर्वदा सत्प्रियं, वन्दितं देववृन्दैर्मुनीन्द्रार्चितम्। पुत्रपौत्रादिसर्वेष्टदं शाश्वतं, सत्यनारायणं विष्णुमीशम्भजे॥८॥ अष्टकं सत्यदेवस्य भक्त्या नरः, भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत्। तस्य नश्यन्ति पापानि तेनाग्निना, इन्धनानीव शुष्काणि सर्वाणि वै॥९॥ इति श्रीसत्यनारायणाष्टकम् सम्पूर्णम्॥🙏🙏

Post media

Comments (0)

No comments yet. Be the first to comment!