
Rohit Patel
347 days ago
🪔विश्वकर्मास्तोत्रम्!! भगवान विष्णु की पूजा करके विश्वकर्मा का ध्यान करते हुए मंत्र जाप या स्तोत्र पाठ करें। ॐ श्रीं सृष्टतनय सर्वसिद्धय विश्वकर्माय नमो नमः। ॐ ऐं ह्रीं श्रीं विश्वकर्माय शिल्पज्ञान प्रवर्तकायनम:। ॐ चतुर्भुजाय विद्महे, हंसवाहनाय धीमहि तन्नो विश्वकर्मा प्रचोदयात। ॐ प्रजापतये विद्महे,तत्पुरुषाय धीमहि तन्नो विश्वकर्मा प्रचोदयात। ॐ विश्वरूपाय विद्महे विश्वकर्मणे धीमहि तन्नो परब्रह्म: प्रचोदयात्। ॐ वास्तुपुत्राय विद्महे शिल्पज्ञान प्रवर्तकाय धीमहि तन्नो विश्वकर्मा: प्रचोदयात्। #विश्वकर्मस्तोत्रम्!! ~विश्वकर्म ध्यानम्~ न भूमिर्न जलञ्चैव न तेजो न च वायवः नाकाशं च न चित्तञ्च न बुद्धीन्द्रियगोचराः न च ब्रह्मा न विष्णुश्च न रुद्रश्च तारकाः सर्वशून्या निरालम्बा स्वयम्भूता विराटसत् सदापरात्मा विश्वात्मा विश्वकर्मा सदाशिवः ॥ श्रितमध्यतमध्यस्तं ब्रह्मादिसुरसेवितम् । लोकाध्यक्षं भजेऽहं त्वां विश्वकर्माणमव्ययम् ॥ प्राकादिदिङ्मुखोत्पन्नो सनकश्च सनातनः । अभुवनस्य प्रत्नस्य सुपर्णस्य नमाम्यहम् ॥ अखिलभुवनबीजकारणम् । प्रणवतत्त्वं प्रणवमयं नमामि ॥ पञ्चवक्त्रं जटाधरं पञ्चदशविलोचनम्। सद्योजाताननं श्वेतं च वामदेवन्तु कृष्णकम् ॥ अघोरं रक्तवर्णं च तत्पुरुषं हरितप्रभम् । ईशानं पीतवर्णं च शरीरं हेमवर्णकम् ॥ दशबाहुं महाकायं कर्णकुण्डल शोभितम्। पीताम्बरं पुष्पमालं नागयज्ञोपवीतिनम्॥ रुद्राक्षमालासंयुक्तं व्याघ्रचर्मोत्तरीयकम्। पिनाकमक्षमालाञ्च नागशूलवराम्बुजम् ॥ वीणां डमरुकं बाणं शङ्खचक्रधरं तथा। कोटिसूर्यप्रतीकाशं सर्वजीवदयापरम् ॥ विश्वेशं विश्वकर्माणं विश्वनिर्माण कारिणम्। ऋषिभिः सनकाद्यैश्च संयुक्तं प्रणमाम्यहम्॥ ।। इति विश्वकर्मस्तोत्रं सम्पूर्णम्॥ #विश्वकर्माष्टकम् {१} निरञ्जनो निराकारः निर्विकल्पो मनोहरः । निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥ अनादिरप्रमेयश्च अरूपश्च जयाजयः । लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥ नमो विश्वविहाराय नमो विश्वविहारिणे । नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥ नमस्ते विश्वरूपाय विश्वभूताय ते नमः । नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥ विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः। विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥ विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः । विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥ विश्वैकविधवृक्षश्च विश्वशाखा महाविधः। शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥ तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः । अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥ इति विश्वकर्माष्टकं सम्पूर्णम् । #श्रीविश्वकर्माष्टकम्{२} आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह। विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥ आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः । सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥ पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् । धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥ विश्वात्मा भूतरूपेण नानाकष्टसंहारक । तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥ ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् । लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥ विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् । सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥ निराभासाय नित्याय सत्यज्ञानान्तरात्मने । विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥ नमो वेदान्तवेद्याय वेदमूलनिवासिने । नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥ यो नरः पठते नित्यं विश्वकर्माष्टकमिदम्। धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥ ।। विश्वकर्माष्टकं सम्पूर्णम्।। 🪷🌺🪷🌺🪷🌺🪷🌺🪷🌺🪷

Comments (0)
No comments yet. Be the first to comment!
